CBSE Sample Papers for Class 10 Sanskrit Paper 1

CBSE Sample Papers for Class 10 Sanskrit Paper 1 are part of CBSE Sample Papers for Class 10 Sanskrit. Here we have given CBSE Sample Papers for Class 10 Sanskrit Paper 1.

CBSE Sample Papers for Class 10 Sanskrit Paper 1

BoardCBSE
ClassX
SubjectSanskrit
Sample Paper SetPaper 1
CategoryCBSE Sample Papers

Students who are going to appear for CBSE Class 10 Examinations are advised to practice the CBSE sample papers given here which is designed as per the latest Syllabus and marking scheme as prescribed by the CBSE is given here. Paper 1 of Solved CBSE Sample Paper for Class 10 Sanskrit is given below with free PDF download solutions.

समय: होरात्रयम्
पूर्णाङ्काः 80

निदेशाः

  1. प्रश्नपत्रं चत्वारः खण्डाः सन्ति
    • खण्ड: (क) अपठित-अवबोधनम्    10 अङ्कः
    • खण्ड: (ख) रचनात्मकं-कार्यम्        15 अङ्काः
    • खण्ड: (ग) अनुप्रयुक्तव्याकरणम्    25 अङ्काः
    • खण्डः (घ) पठित-अवबोधनम्        30 अङ्काः
  2. सर्वे प्रश्नाः अनिवार्याः
  3. प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
  4. प्रश्नसंख्या अवश्यमेव लेखनीया।
  5. उत्तराणि संस्कृतेनैव लेखनीयानि।

खण्डः ‘क’-अपठित-अवबोधनम्

प्रश्न 1:
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत – (10)
संस्कृतसाहित्ये कालिदासः प्रसिद्धः कविः अस्ति। सः सप्तग्रन्थान् अरचयत्। रघुवंशम् कुमारसम्भवम् च द्वे महाकाव्ये, ऋतुसंहारम् मेघदूतम् च द्वे गीतिकाव्ये, विक्रमोर्वशीयम्, मालविकाग्निमित्रम्, अभिज्ञानशाकुन्तलम् च त्रीणि नाटकानि। कालिदासः राज्ञ: विक्रमादित्यस्य सभायाः नवरत्नेषु एकं रत्नम् आसीत्। अस्ति किंवदन्ती यत् पूर्वं कालिदासः महामूर्खः आसीत्। केचित् धूर्ताः पण्डिताः छलेन तस्य विवाहं विदुष्या विद्योत्तमया सह अकारयन्। एकदा रात्रौ उष्ट्रस्य रवं श्रुत्वा कालिदासः उट्र-उट्र इत्यवदत्। उष्ट्रस्थाने ‘उट्र’ शब्दं श्रुत्वा विद्योत्तमाऽजानात् यत् धूर्ताः पण्डिताः तस्याः विवाहं वज्रमूर्खेण सह अकारयन्। तदा मूर्खः कालिदासः अचिन्तयत्- ‘विदुषी मम पत्नी मूर्खश्चाहम्। धिङ् मां मूर्खम्। यावदहं विद्वान् न भविष्यामि, नात्रागमिष्यामि।’ अतः परम् सः गृहाद् बहिः निरगच्छत्। एषः एव विद्वान् भूत्वा महाकविः कालिदासः नाम्ना प्रसिद्धोऽभवत्।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) कालिदासः कस्य राज्ञः सभायाम् एकं रत्नम् आसीत् ?
(ii) कालिदासस्य पत्नी कीदृशी आसीत् ?

(II) पूर्णवाक्येन उत्तरत – (2 × 2 = 4)
(i) कालिदासेन लिखितानाम् ग्रन्थानाम् नामानि लिखत।
(i) धूर्ताः पण्डिताः छलेन किम् अकारयन् ?

(III) यथानिर्देशम् उत्तरत – (1/2 × 4 = 2)
(i) संस्कृतसाहित्ये कालिदासः प्रसिद्धकविः अस्ति।’ अत्र ‘अस्ति’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) कालिदासः
(ख) संस्कृत
(ग) कविः
(घ) प्रसिद्धः

(ii) ‘महापण्डितः’ इत्यस्य पदस्य किं विलोमपदम् अनुच्छेदे प्रयुक्तम् ?
(क) मूर्खः
(ख) मूर्खम्
(ग) महामूर्खः
(घ) वज्रमूर्खण

(iii) अत्र ‘पण्डिताः’ इति पदस्य विशेषणपदं किम् ?
(क) मूर्खाः
(ख) धूर्ताः
(ग) विद्वान्
(घ) महाकविः

(iv) धिङ् मां मूर्खम्’ अत्र ‘मां’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) पंडिताय
(ख) राज्ञे
(ग) कालिदासाय
(घ) उष्ट्राय

(IV) अस्य गद्यांशस्य कृते समुचितं शीर्षकं लिखत।

खण्डः ‘ख’- रचनात्मक कार्यम्

प्रश्न 2:
कृतज्ञता-ज्ञापनहेतवे ज्येष्ठभ्रातरं प्रति लिखिते कनिष्ठभ्रातुः पत्रे रिक्तस्थानानि पूरयत। (1/2 × 10 = 5)

दिल्लीतः
दिनाङ्कः …../ ……./ ………

पूज्येषु (1)::……………….!
शतशः प्रणतिराशयः।
भवदीयं (2) ………… पत्रम् अधिगतम्। एतत् पठित्वा मया (3) ……… प्राप्ता। समाचारपत्रेषु (4) ………. द्रष्टुं, तदनुसारं च आवेदनं कर्तुं, अहम् भवता आदिष्टोऽस्मि। भवदाज्ञानुसारं मया गते मासे (5) ……….. संस्थाने आवेदनपत्रं प्रस्तुतं कृतमासीत्। भगवतः (6) …………… अहं तत्र साक्षात्कारस्य कृते आहूतः तथा (7) …………. साफल्यम् अपि लब्धवान्। एतत्सर्वं भवताम् एव (8). …………… फलं वर्तते । भवादृशं भ्रातरं प्राप्य (9) ………….. आत्मानं गौरवान्वितं मन्ये। अन्यत् सर्वं गृहवृत्तं (10) ………….. वर्तते।
भवदीयः स्नेहाकांक्षी
क, ख, ग
मञ्जूषा- कृपया, अहम्, एकस्मिन्, शोभनं, भ्रातृपदेषु, साक्षात्कारे, प्रेरणायाः, बहुप्रेरणा, प्रेरणादायकं, विज्ञापनानि

प्रश्न 3:
मजूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्च वाक्यानि संस्कृते लिखत। (2 × 5 = 10)
CBSE Sample Papers for Class 10 Sanskrit Paper 16 Q.3
मञ्जूषा- नदीतटे, तपस्वी, वृक्षम्, प्रात:काल: वातावरणं, सूर्योदयः, अधः, तपः, मनोहरम्, गगने, खगाः, ध्यानमग्नः, जलपात्रम्, दृश्यम्।
अथवा
‘प्रधानमंत्री स्वच्छता-अभियानम्’ इति विषयम् अधिकृत्य पञ्चवाक्यानि लिखत –
मञ्जूषा- स्वच्छतायाः, प्रधानमंत्री नरेंद्र मोदी, अवकरपात्रेषु, उद्घाटनम्, इतस्ततः, उद्यानेषु, मार्गेषु, क्षिपन्ति, स्वच्छता -अभियानम्, अवकराणि, अस्माकम् कर्तव्यम्, वातावरण शुद्ध, स्वस्थाः, सामाजिककार्यं।

खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्

प्रश्न 4:
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखते। (1 × 4 = 4)

  1. कर्तुं शक्यो भवेद्येन स विवेक इतीरितः
  2. अये कथं श्रीकृष्णार्जुनौ युधिष्ठिरश्च
  3. अतः चक्षुषः + अस्य प्रत्यारोपणाय प्रयचं करिष्यामि।
  4. सः गुरुम् + नमति

प्रश्न 5:
अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत। (1 × 4 = 4)
(i) दशाननः रङ्गमञ्चे प्रविशति।
(क) दश आननानि यस्य सः
(ख) दश आननानि
(ग) दश आननम्
(घ) दश आननानि यस्मै

(ii) तत्र युधिष्ठिरभीमौ च दृश्येते।
(क) युधिष्ठिरः भीमाः च
(ख) युधिष्ठिरे भीमे चे
(ग) युधिष्ठिरः च भीमः च
(घ) युधिष्ठिरं च भीमं च

(iii) दिल्लीनगरी यमुनायाः समीपम् अस्ति।
(क) उपयमुनम्।
(ख) उपयमुना
(ग) उपयमुनायाः
(घ) उपयमुने

(iv) प्रचण्डाः ज्वालाः यस्य सः अग्निः प्रसरति।
(क) प्रचण्डज्वालाः
(ख) प्रचण्डज्वालः
(ग) प्रचण्डज्वालेन
(घ) प्रचण्डज्वालयुक्तः

प्रश्न 6:
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा प्रदत्तविकल्पेभ्यः समुचितम् उत्तरं लिखत। (1 × 4 = 4)
(i) मातरम् सेव + शानच् …………….. पुत्रौ सुखम् अनुभवतः।
(क) सेवमान्
(ख) सेवमानाः
(ग) सेवमानम्
(घ) सेवमानौ

(ii) वेदानाम् जगति महत् + ङीप्” ………… प्रसिद्धिः।
(क) महत्त्व
(ख) महत्त्वम्
(ग) महती
(घ) महत्ता

(iii) जनैः स्थापित: अश्मा अपि देवत्वं प्राप्नोति।
(क) देव + त्व
(ख) देवी + त्व
(ग) देव + तल्
(घ) देवत् + ल

(iv) प्रकृतेः रमणीयता दर्शनीया अस्ति।
(क) रमण + तल्
(ख) रमणी + तल
(ग) रमणीय + त्व
(घ) रमणीय + तल्

प्रश्न 7:
मजूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत। (1 × 4 = 4)

  1. यूयम् गृहात् ………… मा गच्छथ?
  2. अहम् एवं ……………… न करिष्यामि।
  3. सूर्यः …………… उद्यति ?
  4. त्वम् ……………… किं करोषि ?

मञ्जूषा- सम्प्रति, कदा, बहिः, कदापि

प्रश्न 8:
वाच्यपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत – (1 × 3 = 3)
(i) मोहन: – कमले! किं त्वया प्रदर्शनी …………. ?
(क) दृश्यसे
(ख) दृश्यते
(ग) दृश्यसे
(घ) दृश्ये

(ii) कमला – आम्! अहं प्रदर्शनीम् एवं द्रष्टुं ……………..।
(क) गच्छामि।
(ख) गच्छति
(ग) गच्छामः
(घ) गच्छसि

(iii) मोहनः- अधुना यावत् ………….. कथं न गता।
(क) त्वया
(ख) त्वम्
(ग) तुभ्यम्
(घ) युवाम्

प्रश्न 9:
अधोलिखितेषु वाक्येषु अङ्कानां स्थाने संस्कृतपदैः समयं लिखत – (1 × 2 = 2)
(i) सः (2.30) …………… भोजनं करोति ।
(क) सार्ध-द्विवादने
(ख) सपाद-द्विवादने
(ग) पादोन-द्विवादने
(घ) सार्ध-त्रिवादने

(ii) सः (3.15) …………….. गृहकार्यं करोति ।
(क) सपाद-द्विवादने
(ख) सार्ध-द्विवादने
(ग) सपाद-त्रिवादने
(घ) सार्ध-त्रिवादने

प्रश्न 10:
अधोलिखितेषु वाक्येषु रेखाङ्कितपदानां स्थाने प्रदत्तविकल्पेभ्यः शुद्धपदानि विचित्य लिखत। (1 × 4 = 4)
(i) तस्मिन् कक्षायां त्रिंशत् बालकाः सन्ति।
(क) तस्य
(ख) तत्
(ग) तस्यां
(घ) तेषाम्

(ii) सरोवरे सुन्दरं पुष्पाणि विकसन्ति।
(क) सुन्दरः
(ख) सुन्दराः
(ग) सुन्दरे
(घ) सुन्दराणि

(iii) सः प्रतिदिनं फलानि अखादत्।
(क) खादति
(ख) खादसि
(ग) खादामि
(घ) खादामः

(iv) सिंहः वने वसतः।
(क) सिंहौ
(ख) सिंहाः
(ग) सिंहम्
(घ) सिंह

खण्डः ‘घ’ – पठित-अवबोधनम्

प्रश्न 11:
(अ) अधोलिखितं गद्यांशं पठित्वा तदाधारिताना प्रश्नानाम् उत्तराणि उत्तरपुस्तिकायाम् लिखत। (6)
अथ पूर्वमित्रं दुष्टबुद्धिः प्रच्छन्नभाग्यस्य धनागमवृत्तान्तं श्रुत्वा कदाचित् मध्यरात्रे तस्य एव गृहे चौर्यार्थं सन्धि खननसुयोगं विलोकयन् स्थितः । तस्मिन्नेव काले सुप्तोथितः प्रच्छन्नभाग्यः सम्भ्रान्तचित्तः स्वपत्नीं सम्बोध्य उवाच-‘अहो ! विचित्रः स्वप्नः मया दृष्टः’। अस्माकं क्षेत्रे अश्वत्थतरुमूले सुवर्णपूरितः कलशः विद्यते । दुष्टबुद्धिः तु तयोः वार्ताम् श्रुत्वा झटिति एव क्षेत्रं गतः। .
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) श्रमेण धनागमः कस्य गृहे अभवत् ?
(ii) क्षेत्रे कुत्र स्वर्णपूरितः कलश: विद्यते ?

(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
सुप्तोत्थितः भ्रान्तचित्तः प्रच्छन्नभाग्यः स्वसुखस्वप्नस्य विषये काम् अवदत् ?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) विचित्र: स्वप्नः मया दृष्टः।’ अस्मिन् वाक्ये मया पदं कस्मै प्रयुक्तम् ?
(क) प्रच्छन्नभाग्याय
(ख) दुष्टबुद्धये
(ग) पत्न्यै

(ii) अत्र ‘विद्यते’ इत्यस्याः क्रियायाः कर्तृपदं किम् ?
(क) सुवर्णपूरितः
(ख) कलशः
(ग) क्षेत्रे

(iii) ‘पश्यन्’ इत्यर्थे किम् पदं गद्यांशे प्रयुक्तम् ?
(क) दृष्टः
(ख) विलोकयन्
(ग) सम्बोध्य

(iv) विचित्रः’ इति विशेषणपदस्य विशेष्यपदं अत्र किम्?
(क) दृष्टः
(ख) कलशः
(ग) स्वप्नः

(आ) अधोलिखितं श्लोकं पठित्वा प्रश्नान उत्तरत – (6)
यः इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च।।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) मनुष्यः कस्य श्रेयः इच्छति ?
(ii) सः प्रभूतानि कानि इच्छति ?

(II) पूर्णवाक्येन उत्तरत – (1 × 2 = 2)
किम् इच्छन् नरः परेभ्यः अहितं कर्म न कुर्यात् ?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘कल्याणम्’ इत्यर्थे श्लोके किं पदं प्रयुक्तम् ?
(क) आत्मनः
(ख) सुखानि
(ग) श्रेयः

(ii) ‘प्रभूतानि सुखानि’ अत्र विशेष्य पदं किम् ?
(क) प्रभूतानि
(ख) सुखानि
(ग) एकोऽपि न

(iii) ‘कुर्यात्’ क्रियायाः कर्ता कः?
(क) सः
(ख) यः
(ग) कर्म

(iv) ‘हितम्’ पदस्य विलोम अत्र किम्?
(क) अहितम्
(ख) श्रेयः
(ग) कर्म

(इ) अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत। (6)
युधिष्ठिरः      –             सम्प्रति आश्वस्तः अस्मि। मन्ये सः ब्रह्मास्त्रप्रयोगं न करिष्यति।
श्रीकृष्णः      –             तर्हि न जानासि तस्य मनोवृत्तिम् । पितुः उपदेशेन असन्तुष्टः सः (अश्वत्थामा) एकदा द्वारकापुरीम् आगच्छत्। ब्रह्मास्त्रं दत्त्वा सः सुदर्शनचक्रम् अवाञ्छत्।
युधिष्ठिरः     –             (साश्चर्यम्) कथं चक्रम् इति!
श्रीकृष्णः     –             आम्। मया कथितम्। नाहं त्वतः (द्रौणे:) ब्रह्मास्त्रम् इच्छामि। यदि त्वं मम गदां शक्तिम् धनुः चक्रं वा इच्छसि, तुभ्यं ददामि।
युधिष्ठिरः    –              ततस्ततः।
श्रीकृष्णः    –              सः तु चक्रम् एव अयाचत। गृहाण चक्रम इति उक्तः सः सव्येन पाणिना चक्रं गृहीतवान्, किन्तु सः चक्रं स्वस्थानात् संचालयितुं अपि समर्थः न अभवत्।

(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) पितुः उपदेशेन असन्तुष्टः कः द्वारकापुरीम् आगच्छत् ?
(ii) अश्वत्थामा किम् अयाचत्?

(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
‘गृहाण चक्रम् इति उक्त:’ अश्वत्थामा किम् अकरोत् ?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ददामि’ इति क्रियापदस्य कर्तृपदं प्रयुक्तम् ?
(क) त्वम्
(ख) मम
(ग) अहम्

(ii) ‘अधुना’ इत्यर्थे किम् अव्ययपदम् प्रयुक्तम् ?
(क) सम्प्रति
(ख) साम्प्रतं
(ग) इदानीम्

(iii) अत्र ‘दिव्यां’ इति विशेषणपदस्य विशेष्यपदं किम् ?
(क) भवतः
(ख) शक्तिम्
(ग) चक्रम्

(iv) ‘सन्तुष्टः’ पदस्य विलोमपदं अत्र किम् अस्ति?
(क) समर्थः
(ख) आश्वस्तः
(ग) असन्तुष्टः

प्रश्न 12:
अधोलिखितश्लोकस्य अन्वयं प्रपूर्य लिखत। (1/2 × 8 = 4)
(क) अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति!
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात्।।
अन्वयः- भारति! तव अयं (1) …………….. कोऽपि (2) ………… विद्यते। (य:) व्ययतः (3) …………….. आयाति (4) …………. च क्षयम् आयाति।

(ख) कोऽनर्थफल: ? मानः, का सुखदा? साधुजनमैत्री।
सर्वव्यसनविनाशे को दक्षः ? सर्वथा त्यागी।।
अन्वयः- अनर्थफलः कः ? (1) ……………। सुखदा का? (2) ……………… मैत्री। (3) ……………… विनाशे कः दक्षः ? (4) ……………. त्यागी।।
मञ्जूषा- मानः, कोशः, वृद्धिम्, सर्वथा, अपूर्वः, सर्वव्यसन, सञ्चयात्, साधुजनमैत्री।

प्रश्न 13:
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत। (1 × 4 = 4)

  1. चतुर्दशमन्वन्तराणां समूहः कल्पः।
  2. दुष्टबुद्धिः सद्द्वचनानि अत्यजत्।
  3. प्राज्ञः कलहयुक्तं गृहं परिवर्जयेत्।
  4. दिल्ली यमुनायाः नद्याः तीरे स्थिता।

प्रश्न 14:
रेखाङ्कितपदानां प्रसङ्गानुसारम् शुद्धम् अर्थं विकल्पेभ्यः चित्वा लिखत। (1 × 4 = 4)
I. तस्य पार्वे ब्रह्मशिरो नाम अस्त्रं विद्यते।
(i) गृहे
(ii) वस्त्रे
(iii) आभ्यन्तरे
(iv) समीपे

II. कः पथ्यतरः?
(i) कल्याणमयः
(ii) मार्गम्
(iii) पथितरति
(iv) औषधीम्

III. निधानतां याति हि दीयमानम्।
(i) निर्धनताम्।
(ii) निधनताम्
(iii) सम्पन्नताम्
(iv) विख्याताम्

IV. परमहम् अखण्डः विभुः च।
(i) ईश्वरः
(ii) विधाता
(iii) दैव
(iv) व्यापकः

उत्तराणि
खण्डः ‘क’-अपठित-अवबोधनम्

उत्तर 1:
I. (i) विक्रमादित्यस्य
(ii) विदुषी

II. (i) रघुवंशम् ………….. च त्रीणि नाटकानि।
(ii) धूर्ताः पण्डिताः …………… सह अकारयन्।

III. (i) (क) कालिदासः
(ii) (घ) वज्रमूर्खण
(iii) (ख) धूर्ताः
(iv) (ग) कालिदासाय

IV. महाकविः कालिदासः/कविंकुलाशिरोमणिः कालिदासः।

खण्डः ‘ख’-रचनात्मक कार्यम्

उत्तर 2:

  1. भातृपदेषु
  2. प्रेरणादायकं
  3. बहुप्रेरणा
  4. विज्ञापनानि
  5. एकस्मिन्
  6. कृपया
  7. साक्षात्कारे
  8. प्रेरणायाः
  9. अहम्
  10. शोभनम्

उत्तर 3:

  1. अस्मिन् चित्रे एकः तापसः नदीतटे तपः करोति।
  2. गगने सूर्यः दीव्यति।
  3. नद्याम् हंसौ स्वच्छजले तरतः।
  4. वृक्षस्य अधः तापसस्य निकटे जलपात्रम् अपि अस्ति।
  5. प्रात:कालस्य दृश्यं वातावरणं च मनोहरं प्रतीयते।

अथवा
‘प्रधानमंत्री स्वच्छता-अभियानम्

  1. प्रधानमंत्री स्वच्छता अभियान राष्ट्रीय-कार्यक्रमम् अस्ति।
  2. प्रधानमंत्री नरेन्द्रमोदी अस्य उद्घाटनम् अकरोत्।
  3. देशे सर्वत्र अस्वच्छता अस्ति।
  4. जनाः अवकराणि उद्यानेषु मार्गेषु नदीषु क्षिपन्ति।
  5. स्वच्छता अभियानं एकं सामाजिक कार्यम् अस्ति।

खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्

उत्तर 4:

  1. भवेत् + येन
  2. युधिष्ठिरः + च
  3. चक्षुषोऽस्य
  4. गुरुं नमति

उत्तर 5:
(i) (क) दश आननानि यस्य सः
(ii) (ग) युधिष्ठिरः च भीमः च
(iii) (क) उपयमुनम्
(iv) (ख) प्रचण्डज्वालः

उत्तर 6:
(i) (घ) सेवमानौ
(ii) (ग) महती
(iii) (क) देव + त्व
(iv) (घ) रमणीय + तल्

उत्तर 7:

  1. बहिः
  2. कदापि
  3. कदा
  4. सम्प्रति

उत्तर 8:
(i) (ख) दृश्यते
(ii) (क) गच्छामि
(iii) (क) त्वया

उत्तर 9:

  1. सार्धद्विवादने
  2. सपादत्रिवादने

उत्तर 10:
(i) (ग) तस्याम्
(ii) (घ) सुन्दराणि
(iii) (क) खादति
(iv) (क) सिंहौ

खण्डः ‘घ’–पठित-अवबोधनम्

उत्तर 11:
(अ) I. (i) प्रच्छन्नभाग्यस्य
(ii) अश्वत्थतरुमूले

II. सुप्तोत्थितः भ्रान्तचित्तः प्रच्छन्नभाग्यः ……. दृष्टः।

III (i) (क) प्रच्छन्नभाग्याय
(ii) (ख) कलशः
(iii) (ख) विलोकयन्
(iv) (ग) स्वप्नः

(आ) I. (i) आत्मनः
(ii) सुखानि

II. आत्मनः श्रेयः ……….. इच्छन् ……….. न कुर्यात्।

III. (i) (ग) श्रेयः
(ii) (ख) सुखानि
(iii) (ख) यः
(iv) (क) अहितम्

(इ) I. (i) अश्वत्थामा
(ii) सुदर्शनचक्रम्

II. सः सव्येन ……….. समर्थः ने अभवत्।

III. (i) (क) त्वम्
(ii) (क) सम्प्रति
(iii) (ख) शक्तिम्
(iv) (ग) असन्तुष्टः

उत्तर 12:
(अ) (i) अपूर्वः
(ii) कोशः
(iii) वृद्धिम्
(iv) सञ्चयात्

(ब) (i) मानः
(ii) साधुजनमैत्री
(iii) सर्वव्यसन
(iv) सर्वथा

उत्तर 13:

  1. कः
  2. कानि
  3. कीदृशम्
  4. कस्याः

उत्तर 14:
I. (iv) समीपे
II. (i) कल्याणमयः
III. (iii) सम्पन्नताम्
IV. (iv) व्यापकः

We hope the CBSE Sample Papers for Class 10 Sanskrit Paper 1 help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Paper 1, drop a comment below and we will get back to you at the earliest.

Leave a Comment